|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.77. अध्यायः 077
Mahabharata - Ashvamedhika Parva - Chapter Topics
अश्वानुसरणवशास्सिन्धुदेशं गतेनार्जुनेन सैन्धवैःसह महाऽऽयोधनम्॥ 1 ॥ बाणगणावकीर्णस्यार्जुनस्य कराद्गाण्डीवस्या धःपतने देवर्ष्यादिभिर्जपादिना तस्य तेजोदीपनम्॥ 2 ॥ ततः पुनरर्जुनेन तैः स***योधनम्॥ 3 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
वैशम्पायन उवाच।
`जित्वा प्रसाद्य राजानं भगदत्तसुतं तदा।
विसृज्य याते तुरगे सैन्धवान्प्रति भारत॥' 14-77-1(94606)
सैन्धवैरभवगद्युद्धं ततस्तस्य किरीटिनः।
हतशेषैर्महाराज हतानां च सुतैरपि॥ 14-77-2(94607)
तेऽवतीर्णमुपश्रुत्य विषयं श्वेतवाहनम्।
प्रत्युद्ययुरमृष्यन्ते राजानः पाण्डवर्षभम्॥ 14-77-3(94608)
अश्वं च तं परामृश्य विषयान्ते विषोपमात्।
न भयं चक्रिरे पार्थाद्भीमसेनादनन्तरात्॥ 14-77-4(94609)
तेऽविदूराद्धनुष्पाणिं यज्ञियस्य हयस्य च।
बीभत्सुं प्रत्यपद्यन्त् पदातिनमवस्थितम्॥ 14-77-5(94610)
ततस्ते तं महावीर्या राजानः पर्यवारयन्।
जिगीषन्तो नरव्याघ्रं पूर्वं विनिकृता युधि॥ 14-77-6(94611)
ते नामान्यपि गोत्राणि कर्मणि विविधानि च।
कीर्तयन्तस्तदा पार्थं शरवर्षैरवाकिरन्॥ 14-77-7(94612)
ते किरन्तः शरव्रातान्वारणप्रतिवारणान्।
रणे जयमभीप्सन्तः कौन्तेयं पर्यवारयन्॥ 14-77-8(94613)
ते समीक्ष्य च तं कृष्णमुग्रकर्माणमाहवे।
सर्वे युयुधिरे वीरा रथस्थास्तं पदातिनम्॥ 14-77-9(94614)
ते तमाजघ्निरे वीरं निवातकवचान्तकम्।
संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च॥ 14-77-10(94615)
ततो रथसहस्रेण गजानामयुतेन च।
***ष्ठकीकृत्य बीभत्सुं प्रहृष्टमनसोऽभवन्॥ 14-77-11(94616)
** स्मरन्तो वधं वीराः सिन्धुराजस्य चाहवे।
जयद्रथस्य कौरव्य समरे सव्यसाचिना॥ 14-77-12(94617)
ततः पर्जन्यवत्सर्वे शरवृष्टीरवासृजन्।
तैः कीर्णः शुशुभे पार्थो रविर्मेघान्तरे यथा॥ 14-77-13(94618)
स शरैः समवच्छन्नश्चकाशे पाण्डवर्षभः।
पञ्चरान्तरसञ्चारी शकुन्त इव भारत॥ 14-77-14(94619)
ततो हाहाकृतं सर्वं कौन्तेय शरपीडिते।
त्रैलोक्यमभवद्राजन्रविरासीद्रजोरुणः॥ 14-77-15(94620)
ततो ववौ महाराज मारुतो रोमहर्षणः।
राहुरग्रसदादित्यं पर्वणीव विशाम्पते॥ 14-77-16(94621)
उल्काश्च जघ्निरे सूर्यं विकीर्यन्त्यः समन्ततः।
वेपथुश्चाभवद्राजन्कैलासस्य महागिरेः॥ 14-77-17(94622)
मुमुचुः श्वासमत्युष्णं दुःखशोकसमन्विताः।
सप्तर्षयो जातभयास्तथा देवर्षयोपि च॥ 14-77-18(94623)
शशं चाशु विनिर्भिद्य मण्डलं शशिनोऽपतन्।
विपरीता दिशश्चापि सर्वा धूमाकुलास्तथा॥ 14-77-19(94624)
रासभारुणसङ्काशा धनुष्मन्तः सविद्युतः।
आवृत्य गगनं मेघा मुमुचुर्मांसशोणितम्॥ 14-77-20(94625)
एवमासीत्तदा वीरे शरवर्षेण संवृते।
फल्गुने भरतश्रेष्ठ तदद्भुतमिवाभवत्॥ 14-77-21(94626)
तस्य तेनावकीर्णस्य शरजालेन सर्वतः।
मोहात्पपात गाण्डीवमावापश्च करादपि॥ 14-77-22(94627)
तस्मिन्मोहमनुप्राप्ते शरजालं महत्तदा।
सैन्धवा मुमुचुस्तूर्णं गतसत्वे महारथे॥ 14-77-23(94628)
ततो मोहं समापन्नं ज्ञात्वा पार्थं द्विवौकसः।
सर्वे वित्रस्तमनसस्तस्य शान्तिकृतोऽभवन्॥ 14-77-24(94629)
ततो देवर्षयः सर्वे तथा सप्तर्षयोपि च।
ब्रह्मर्षचस्च विजयं जेपुः पार्थस्य धीमतः॥ 14-77-25(94630)
ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव।
तस्थावचलवद्धीमान्सङ्ग्रामे परमास्त्रवित्॥ 14-77-26(94631)
विचकर्ष धनुर्दिव्यं ततः कौरवनन्दनः।
यन्त्रस्येवेह शब्दोऽभून्महांस्तस्य पुनः पुनः॥ 14-77-27(94632)
ततः स शरवर्षाणि प्रत्यमित्रान्प्रति प्रभुः।
ववर्ष धनुषा पार्थो वर्षाणीव पुरंदरः॥ 14-77-28(94633)
ततस्ते सैन्धवा योधाः सर्व एव सराजकाः।
नादृश्यन्त शरैः कीर्णाः शलभैरिव पादपाः॥ 14-77-29(94634)
तस्य शब्देन वित्रेसुर्भयार्ताश्च विदुद्रुवुः।
मुमुचुस्चाश्रु शोकार्ताः शुशुचुश्चापि सैन्धवाः॥ 14-77-30(94635)
तांस्तु सर्वान्नरव्याघ्रः सैन्धवान्व्यचरद्बली।
अलातचक्रवद्राजञ्शरजालैः समार्पयत्॥ 14-77-31(94636)
तदिन्द्रजालप्रतिमं बाणजालममित्रहा।
विसृज्य दिक्षु सर्वासु महेन्द्रि इव वज्रभृत्॥ 14-77-32(94637)
मेघजालनिभं सैन्यं विदार्य शरवृष्टिभिः।
विबभौ कौरवश्रेष्ठः शरदीव दिवाकरः॥ ॥ 14-77-33(94638)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि सप्तसप्ततितमोऽध्यायः॥ 77 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-77-19 उत्काः शशं चन्द्रस्थं विनिर्भिद्य शशिनो मण्डलं प्रति अपतन्निति अनुवृत्त्या सम्बन्धः॥ 7-77-20 रासभारुणे वर्णविशेषः॥ 7-77-22 आवापो हस्तावापः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|